|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.187. अध्यायः 187
Mahabharata - Shanti Parva - Chapter Topics
भरद्वाजंप्रति भृगुणा ब्राह्मणादिवर्णलक्षणकथनम्। वैराग्यस्य मुक्तिसाधनताकथनं च॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भरद्वाज उवाच। 12-187-0x(5938)(72437)
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर॥ 12-187-1(72438)
भृगुरुवाच। 12-187-2x(5939)
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः।
वेदाध्ययनसंपन्नः षट्सु कर्मस्ववस्थितः॥ 12-187-2(72439)
शौचाचारस्थितः सम्यग्विघसाशी गुरुप्रियः।
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते॥ 12-187-3(72440)
सत्यं दानमथाद्रोह आनृशंस्यं क्षमा धृणा।
तपश्च दृश्यते यत्र स ब्राह्मण इति स्मृतः॥ 12-187-4(72441)
क्षत्रजं सेवते कर्म देवाध्ययनसंगतः।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते॥ 12-187-5(72442)
कृपिगोरक्षवाणिज्यं यो विशत्यनिशं शुचिः।
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः॥ 12-187-6(72443)
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः॥ 12-187-7(72444)
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते।
न वै शूद्रो भवेच्छ्रद्रो ब्राह्मणो न च ब्राह्मणः॥ 12-187-8(72445)
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः।
एतत्पवित्रं ज्ञातव्यं तथा चैवात्मसंयमः॥ 12-187-9(72446)
वार्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुच्छ्रितौ॥ 12-187-10(72447)
नित्यं क्रोधाच्छ्रियं रक्षेत्तपो रक्षेच्च मत्सरात्।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः॥ 12-187-11(72448)
यस्य सर्वे समारम्भा निराशाबन्धना द्विज।
त्यागे यस्य हुतं सर्वं स त्यागी च स बुद्धिमान्॥ 12-187-12(72449)
अहिंस्रः सर्वभूतानां मैत्रायणगतिश्चरेत्।
परिग्रहान्परित्यज्य भवेद्बुद्ध्या जितेन्द्रियः।
अचलं स्थानमातिष्ठेदिह चामुत्र चोभयोः॥ 12-187-13(72450)
तपोनित्येन दान्तेन मुनिना संयतात्मना।
अजितं जेतुकामेन भाव्यं सङ्गेष्वसङ्गिना॥ 12-187-14(72451)
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः।
अव्यक्तमिति विज्ञेयं लिङ्गग्राह्यमतीन्द्रियम्॥ 12-187-15(72452)
अविस्रम्भे न गन्तव्यं विस्रम्भे धारयेन्मनः।
मनः प्राणे निगृह्णीयात्प्राणं ब्रह्मणि धारयेत्॥ 12-187-16(72453)
निर्वेदादेव निर्वायान्न च किंचिद्विचिन्तयेत्।
सुखं वै ब्राह्मणो ब्रह्म स वै तेनाधिगच्छति॥ 12-187-17(72454)
शौचेन सततं युक्तः सदाचारसमन्वितः।
सानुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम्॥ ॥ 12-187-18(72455)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताशीत्यधिकशततमोऽध्यायः॥ 187॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-187-3 विघसं ब्राह्मणादिभुक्तशेषम्॥ 12-187-5 क्षत्रं हिंसा तदर्थं जातं क्षत्रजं युद्धात्मकं कर्म। आदानं प्रजाभ्यः॥ 12-187-6 वाणिज्या पशुरक्षा च कृष्यादानरतिः शुचिः। इति झ. पाठः॥ 12-187-8 एतत्सत्यादिसप्तकम्। द्विजे त्रैवर्णिके। धर्म एव वर्णविभागे कारणं न जातिरित्यर्थः॥ 12-187-10 तौ क्रोधलोभौ॥ 12-187-12 आशैव बन्धनं तद्वर्जिता निराशाबन्धनाः समारम्भाः सम्यगारभ्यन्त इति यज्ञादयः। हुतमघ्नौ ब्राह्मणे वा दत्तमग्निहोत्रनित्यश्राद्धादि। त्यागे फलत्यागनिमित्तम्। निराशीर्बन्धना द्विजेति घ. झ.ट. पाठः॥ 12-187-13 मैत्रं मित्रभावस्तदेवायनं परं प्राप्यं स्थानं तत्र गतिर्यस्य सः। स्थानमात्मानमातिष्ठेत् आभिमुख्येन तिष्ठेत्। आत्मध्यानपरो भवेदित्यर्थः॥ 12-187-14 सङ्गेषु ममेदमिति सङ्गहेतुषु पुत्रदारादिषु॥ 12-187-17 निर्वेदादेव निर्वाणं न किंचिदपि इति घ.झ. पाठः। निर्वाणादेव निर्वायात् इति ड. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|